सामग्री पर जाएँ

पृष्ठ:पउमचरिउ.djvu/१३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

॥सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः ॥ १ २ ३ ४ ५ ६ 9 ९ १० ११ १४ १५ 90 १८ अस्ति बङ्गामिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ बहवों निवसन्त्यत्र जैना उकेशवंशजाः । धनान्या नृपसम्मान्या धर्मकर्मपरायणाः ॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुमाग्यवान् । साधुवत् सचरित्रो यः सिंघीकुलप्रभाकरः॥ बाश्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुर्या धृतधर्मार्थनिश्चयः॥ कुशाग्रीयस्वबुखचैव सवृत्त्या च सुनिष्ठया । उपाय॑ विपुलां लक्ष्मी कोव्यधिपोऽजनिष्ट सः ॥ तस्य भन्नुकुमारीति समारीकुलमण्डना । भभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा ।। श्रीबहादुरसिंहाल्यो गुणवॉस्तनयस्तयोः । अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः ॥ प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठपुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् दक्षिणबाहुबत् पितुः ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुरिन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोऽपि सत्पुत्रा मातमक्तिपरायणाः । विनीताः सरला भव्याः पितुर्मार्गानुगामिनः ॥ मन्येऽपि बहवस्तस्याभवन् स्वस्त्रादिबान्धवाः । धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥ अन्यच्च- सरस्वत्यां सदासको भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्यासीत् सदाचारी तचित्रं विदुषां खलु ॥ नाहकारो न दुर्भावो न विलासो न दुर्व्ययः । दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सज्जनान् प्रति । बन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि । देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति-सस्कलाश्रियः॥ समुखत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं घनम् ॥ गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदान्वितः । दत्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः ॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । मकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः स्वयम् । तस्मात् वज्ज्ञानवृद्ध्यर्थ यतनीयं मयाऽप्यरम् ॥ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शा.न्ति नि के तने । सिंधीपदाङ्कितं जैन ज्ञान पीठ मतीष्ठिपत् ॥ श्रीजिनविजयः प्राज्ञो मुनिनाना च विश्रुतः । स्वीकतुं प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य-सौहार्द-स्थैयौदार्यादिसद्गुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना । रस-नागार-चन्द्राब्दे तत्प्रतिष्ठा व्यधीयत ॥ प्रारब्धं मुनिना चापि कार्य तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां ग्रन्थानां प्रथनं तथा ॥ वस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । ब्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसुसिद्धये ॥ छात्राणां वृत्तिदानेन नैकषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् ॥ जलवाग्वादिकानां तु प्रातिकूल्यादसौ मुनिः । कार्य त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः ॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः ॥ नन्द-निध्य-चन्द्रांन्दे जाता पुनः सुयोजना । ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना ॥ ततः सुहृत्परामर्शात् सिंघीवंशनभस्वता । भाविद्याभवना येयं ग्रन्थमाला समर्पिता ॥ मासीत्तस्य मनोवाञ्छाऽपूर्वग्रन्थप्रकाशने । तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद विधेहन्त ! दौर्भाग्याचात्मबन्धूनाम् । स्वल्पेनैवाथ कालेन स्वर्ग स सुकृती ययौ । इन्दु-ख-शून्य-नेत्रैब्दे मासे भाषाढसम्झके । कलिकाताख्यपुर्या स प्राप्तवान् परमां गतिम् ॥ पितृभक्तश्च तत्पुत्रैः प्रेयसे पितुरात्मनः । तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः ॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा । भूयाद् भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका ॥ विद्वज्जनकृताहादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके श्रीसैंधी प्रन्थपद्धतिः ॥ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० ३४ ३५ ४.