११० बृहदारण्यकोपनिषद् स० आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् पशुभ्य एक प्रायच्छदिति तत्पयः पयो होवाग्रे मनुप्याश्च पश- वश्चोपजीवन्ति तस्मात्कुमारं जातं वृनं वैवाग्रे प्रति- लेहयन्ति स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरगणाद इति तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिनि यच नेति पयसि हीदछ सर्व प्रतिष्टितं यच्च मारिणति यच न तद्यदिदमाहुः संवत्सरं पयसा जुद्दपपुनमृत्यु जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनमृत्युमपजयत्येवं विद्वा- न्सर्वं हि देवेभ्योऽन्नायं प्रयच्छति कस्मात् तानि न तीय- न्तेऽद्यमानानि सर्वदेति पुरुपो वा अक्षितिः स हीदमन्नं पुनः पुनर्जयते यो वैतामक्षितिं वेद वेदेति पुरुषो वा अतितिः सहीदमन्नं धिया धिया जनयते कर्मभिर्यतन्न कुर्यात् तीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीक मुखेनेत्येतत् स देवानपि गच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ पदच्छेदः। यत्, सप्त, अन्नानि, मेधया, तपसा, अजनयत्, पिता, इति, मेधया, हि, तपसा, अजनयत्, पिता, एकम् , अस्य, साधारणम् , इति, इदम् , एव, अस्य, तत्, साधारणम् , अन्नम् , यत्, इदम् , अद्यते, स:, यः, एतत् , उपास्ते, न, सः, पाप्मनः, व्यावर्त्तते, मिश्रम् , हि, एतत्, द्वे, देवान्, अभाजयत् , इति, हुतम्, च, प्रहुतम् , च, तस्मात् , देवेभ्यः, .
पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१२६
दिखावट