पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६७५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ५ ब्राह्मण १५ अथ पञ्चदशं ब्राह्मणम्। मन्त्रः १ हिरएमयेन पात्रेण सत्यस्यापिहितं मुखं तत्त्वं पूषन्न- पावृणु सत्यधर्माय दृष्टये पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलम- मृतमथेदं भस्मान्त शरीरम् ॐक्रतो स्मर कृतथे स्मर क्रतों स्मर कृत स्मर अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहू- राणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥ इति. पश्चदशं ब्राह्मणम् ॥ १५ ॥ इति श्रीबृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥५॥ पदच्छेदः। हिरण्मयेन, पात्रेण, सत्यस्य, अपिहितम् , मुखम्, तत्, त्वम् , पूषन्, अपावृणु, सत्यधर्माय, दृष्टये, पूषन् , एक, यम, सूर्य, प्रजापत्य, व्यूह, रश्मीन् , समूह, तेजः, यत् , ते, रूपम् , कल्याणतमम् , तत् , ते, पश्यामि, यः, असौ, असो, पुरुपः, सः, अहम्, अस्मि, वायुः, अनिलम्, अमृतम् , अथ, इदम् , भस्मान्तम् , शरीरम् , ॐ, क्रतो, स्मर, कृतम्, क्रतो, स्मर, कृतम् , स्मर, अग्ने, नय, सुपथा, राये, अस्मान् , विश्वानि, देव, वयुनानि, विद्वान्, युयोधिं, अस्मत् , जुहूराणम् , एनः, भूयिष्ठाम् , ते, नमउक्तिम् विधेम ॥ - स्मर,