पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७२३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण २ मन्त्रः १६ अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूम- मभिसंभवन्ति धमाद्रात्रि रात्ररपक्षीयमाणपक्षमपक्षीय- माणपक्षाघान् पएमासान्दक्षिणाऽऽदित्य एति मासेभ्यः पितृलोकं पित्लोकाचन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तास्तत्र देवा यथा सोम राजानमाप्यायस्वापक्षीय- स्वेत्येवमेनास्तत्र भक्षयन्ति तेपां यदा तत्पर्यवैत्यथैममे- वाऽऽकाशमभिनिष्पद्यन्त आकाशाद् वायुं वायोष्टिं दृष्टेः पृथिवीं ते पृथिवीं प्राप्यानं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योपाग्नौ जायन्ते लोकान् प्रत्युत्थायिनस्त एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदीदं दन्दशूकम् ।। इति द्वितीयं ब्राह्मणम् ॥ २॥ पदच्छेदः। अथ, ये, यज्ञेन, दानन, तपसा, लोकान् , जयन्ति, ते, धूमम् , अभिसंभवन्ति, धूमात्, रात्रिम् , रात्रेः, अपक्षीयमाण पक्षम्, अंपक्षीयमाणपक्षात् , यान्, षण्मासान् , दक्षिणा, आदित्यः, एति, मासेभ्यः, पितृलोकम् , पितृलोकात्, चन्द्रम् , ते, चन्द्रम्, प्राप्य, अन्नम्, भवन्ति, तान् , तत्र, देवाः, यथा, सोमम् , राजानम् , अाप्यायस्व, अपक्षीयस्व, इति, एवम् , एनान् , तत्र, भक्षयन्ति, तेपाम्, यदा, तत्, पर्यवैति, अथ, इमम्, एव, आकाशम् , अभिनिष्पद्यन्ते, आकाशात्, वायुम्, वायोः, वृष्टिम् , वृष्टेः, पृथिवीम् , ते, पृथिवीम् , प्राप्य, अन्नम् , - . .