पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ३ साम प्रस्तोति स यत्र प्रस्तुयात्तदेतानि जपेत् असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा असत् सदमृतं मृत्यो- मामृतं गमयामृतं मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्ग- मयेति मृत्युर्वं तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं माकुवित्येवैतदाह मृत्योर्मामृतं गमयेति नात्र तिरोहित- मिवास्ति अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाच- मागायत्तस्मादुतेषु वरं वृणीत यं कामं कामयेत तस एप एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्भतल्लोकजिदेव तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ।। इति तृतीयं ब्राह्मणम् ।। ३ !! पदच्छेदः। अथ, अतः, पवमानानाम्, एव, अभ्यारोहः, सः, वै, खलु, प्रस्तोता, साम, प्रस्तौति, सः, यत्र, प्रस्तुयात्, तत्, एतानि, जपेत् , असतः, मा, सत् , गमय, तमसः, मा, ज्योतिः, गमय, मृत्योः, मा, अमृतम् , गमय, इति, सः, यत्, श्राह, असतः, मा, सत्, गमय. इति, मृत्युः, वा, असत्, सत्, अमृतम् , मृत्योः, मा, अमृतम् , गमय, अमृतम् , मा, करु, इति, एव, एतत् , अाह, तमसः, मा, ज्योतिः, गमय, इति, मृत्युः, वै, तमः, ज्योतिः, अमृतम्, मृत्योः, मा, अमृतम् , गमय, अमृतम् , मा, कुरु, इति, एव, एतत् , आह, मृत्योः, मा, अमृतम्, गमय, इति, न, अत्र, तिरोहितम् , इव, अस्ति, - .