पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/९६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० अकृत्स्नो हि स प्राणन्नेव प्राणो भवति बदन्वाक् पश्यं- श्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्म- नामान्येव स योत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येपोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एक भवन्ति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्व वेद यथा ह वै पदेनानुविन्देदेवं कीर्ति श्लोकं विन्दते स य एवं वेद । पदच्छेदः। तत्, ६, इदम्, तर्हि, अव्याकृतम् , आसीत् , तत् , नामरूपाभ्याम् , एव, व्याक्रियत, असौनामा, अयम्, इदम्, रूपः, इति, तत्, इदम् , अपि, एतर्हि, नामरूपाभ्याम् , एव, व्याक्रियते, असौनामा, अयम् , इदम्, रूपः, इति, सः, एषः, इह, प्रविष्टः, आ, नखाग्रेभ्यः, यथा, क्षुरः, क्षुरधाने, अवहितः, स्यात् , विश्वंभरः, वा, विश्वभरकुलाये, तम्, न, पश्यन्ति, अकृत्स्नः, हि, स:, प्राणन्. एव, प्राणः, भवति, वदन् , वाक्, पश्यन् , चक्षुः, शृण्वन् , श्रोत्रम् , मन्वानः, मनः, तानि, अस्य, एतानि, कर्मनामानि, एव, सः, यः, अतः, एकैकम् , उपास्ते, न, सः, वेद, अकृत्स्नः, हि, एषः, अतः, एकैकन, भवति, आत्मा, इति, एव, उपा- सीत, अत्र, हि, एते, सर्वे, एकम् , भवन्ति, तत्, एतत् , पदनीयम् , अस्य, सर्वस्य, यत् , अयम्, आत्मा, अनेन, हि, एतत् , सर्वम् , वेद, यथा, ह, चै, पदेन, अनुविन्देत् , एवम् , कीर्तिम्, श्लोकम् , विन्दते, सः, यः, एवम् , वेद ।। . . . > .