कुरल-काव्य/परिच्छेदः १७ ईर्ष्यात्यागः

विकिस्रोत से

[ १७ ]

परिच्छेदः १७
ईर्ष्यात्यागः

ईर्ष्यापूर्णविचारास्तु सततं दुःखदायिनः।
मनसा ताञ्जहीहि त्वं तदभावे हि धर्मिता॥१॥
अखिलेर्ष्याविनिर्मुक्तस्वभावसदृशं पुनः।
नास्ति भद्रमहो पुंसां विस्तृते जगतीतले॥२॥
यस्य नास्ति धने प्रीतिर्धमें चात्महितङ्करे।
स ईर्ष्यति सदा वीक्ष्य समृद्धं प्रतिवेशिनम्॥३॥
ईर्ष्याया कुरुते नैव परहानिं विचक्षणः।
ईर्ष्याजन्यविकाराणां ह्युदर्कं वेत्ति तत्त्ववित्॥४॥
ईर्ष्यैवालं विनाशाय तदाश्रयप्रदायिनः।
मुश्चेद्वा तं रिपुर्जातु नत्वीर्ष्या सर्वनाशिनी॥५॥
परस्मै यच्छते पुसे य ईर्ष्यति नराधमः।
भृशं दुःखायते तस्य कुटुम्बं कशिपोः[१] कृते॥६॥
विजहाति स्वयं लक्ष्मीरीर्ष्यादूषितचेतसम्।
अर्पयते च तं स्वस्याः पूर्वजायै[२]दुराशयम्॥७॥
अतिदुःखकरी नूनं दानवीव दरिद्रता।
इयमीर्ष्या च तहूती नरकद्वारदर्शिनी॥८॥
ईर्ष्यावतां समृद्धत्वं दानिनाश्च दरिद्रता।
विवेकिनां मनस्येते समाने विस्मयावहे॥९॥
ईर्ष्यया क्वापि नो कश्चित् पुष्पितः फलितोऽथवा।
तथैवोदारचेतास्तु ताभ्यां क्वापि न वञ्चितः॥१०॥

  1. अन्नवस्त्रयों.,
  2. दरिद्रतायै।