कुरल-काव्य/परिच्छेदः २१ पापभीतिः
परिच्छेदः २१
पापभीतिः
यन्मौर्ख्यं निखले लोके पापनाम्ना निगद्यते।
ततोऽभीताः खलाः किन्तु सन्तस्तस्माच्च दूरगाः॥१॥
'द्रोहात्संजायते द्रोह' इति सत्यं सुभाषितम्।
दूरादेव ततस्त्याज्यो द्रोहाग्निर्वैरवर्द्धकः॥२॥
कथयन्ति बुधा एवं यद्धीः सैवेह शस्यते।
यया बुद्धिमता नित्यं हानिर्हेया द्विषामपि॥३॥
विस्मृत्यापि नरो धीमान् परनाशं न चिन्तयेत्।
यतस्तस्य विनाशाय न्यायो युक्तिं सदेक्षते॥४॥
'निर्धनोऽस्मीति' बुद्धयापि न कर्तव्यं हि किल्विषम्।
दुरिताद् बर्द्धते यस्माद् दारिद्रयमधिकाधिकम्॥५॥
यदीच्छसि विपत्तिभ्यस्त्राणं सततमात्मनः।
न कर्तव्या त्वया हानिः परेषां दुःखदायिनी॥६॥
अन्यारिभ्यस्तु संरक्षा कदाचित् संभवत्यहो।
परं पापाद् विनिर्मुक्तिर्नाशात्पूर्वा न जातुचित्॥७॥
न जहाति नरं छाया यथा सा पृष्ठवर्तिनी।
तथैव पापकर्माणि नाशोदर्काणि देहिनाम्॥८॥
न करोति नरः पापं यस्यात्मा वै ध्रुवं प्रियः।
स एव कुरुते पापं यस्यात्मा ध्रुवमप्रियः॥९॥
विपदो विहतास्तस्य पूर्णरीत्या च रक्षितः।
विधातुं पापकर्माणि यः सन्मार्ग न मुञ्चति॥१०॥