कुरल-काव्य/परिच्छेदः २२ परोपकारः
परिच्छेदः २२
परोपकारः
नोपकारपराः सन्तः प्रतिदानजिघृक्षया।
समृद्धः किमसौ लोको मेघाय प्रतियच्छति॥१॥
महान्तो बहुभिर्यत्नैरर्जयन्ति स्वपौरुषात्।
यद्द्रव्यं खलु तत्सर्वं परेषामेव कार्यकृत्॥२॥
यः कश्चिदुपकारो हि हार्दिकः क्रियते बुधैः।
न किश्चिद्वस्तु तत्तुल्यं भूतले वा सुरालये॥३॥
योग्यायोग्यविचारो हि नून यस्य स जीवति।
तयोर्विवेकहीनश्च जीवन्नपि मृतायते॥४॥
पश्य तं सलिलापूर्णं कासार[१] हृधदर्शनम्।
एवं तस्यापि गेहे श्रीर्यस्यान्तः प्रेमसंस्थितिः॥५॥
उदाराणामिदं सर्वं वैभवं समुपार्जितम्।
ग्राममध्ये समुत्पन्नतरुवैभवसन्निभम्॥६॥
तेन वृक्षेण संकाशा[२] उत्तमस्य विभूतयः।
सर्वाङ्गं यस्य भैषज्यं सदा च फलशालिनः॥७॥
दुःखं दैवाद् यदि प्राप्तो योग्यायोग्यपरीक्षकः।
न मुश्चति तथाप्येष उपकारं दयाकरः॥८॥
सुकृती रिक्तमात्मानं तदानीं मन्यते ध्रुवम्।
आशाभंगान्निवर्तन्ते यदा वै याचका जनाः॥९॥
उपकारो विनाशेन सहितोऽपि प्रशस्यते।
विक्रीयापि निजात्मानं भव्योत्तम विधेहि तम्॥१०॥