कुरल-काव्य/परिच्छेदः ४३ बुद्धिः

विकिस्रोत से

[ ४३ ] 

परिच्छेदः ४३
बुद्धिः

आकस्मिके विपच्चक्रे बुद्धिः सन्नाहसन्निभा।
अजय्यः प्रतिभादुर्गः समवेत्यापि शत्रुभिः॥१॥
सुबुद्धथा करणग्रामो विषयेभ्यो निवर्तते।
अशुभाच्च शुभे मार्गे नियुक्ते सा यथाविधि॥२॥
अस्ति बुद्धेरियकार्य वत्सत्यासत्यनिर्णयः।
तद्वक्ताऽस्तु पुनः कोऽपि सुप्रियो दुष्प्रियोऽथवा॥३॥
मतिमान् भाषते नित्यं सुबोध्यामेव भारतीम्।
परेषां वचसां सारं स्वयञ्चापि स बुध्यति॥४॥
सर्वसौहार्दवृत्तित्वात् सर्वादियः सुधीः सदा।
यस्यैकरूपता सख्ये चित्ते चातिव्यवस्थितिः॥५॥
लोकरीत्यनुसारेण व्यवहारोऽपि सर्वदा।
आख्याति बुद्धिसद्भावमिति लोकज्ञभाषणम्॥६॥
बुद्धिमान् बुद्धिसामान किमुदर्के भविष्यति।
इति पूर्व स्वयं वेत्ति न चैवं बुद्धिवर्जितः॥७॥
भीतिस्थाने हठादेव प्रवृत्तिर्बुद्धिहीनता।
भयहेतोविभीतिश्च प्रबुद्धेरेव सूचिका॥८॥
सर्वेषामेव कार्याणां कृते यः पूर्वसज्जितः।
तस्य कम्पकदुःखानां नाघातो दूरदर्शिनः॥९॥
अखिलं तस्य कल्याणं यस्यास्ति बुद्धिवैभवम्।
यस्य नास्ति स्वयं प्रज्ञा तस्य किञ्चिन्न विद्यते॥१०॥