सामग्री पर जाएँ

कुरल-काव्य/परिच्छेदः ४४ दोषनिवृत्तिः

विकिस्रोत से
कुरल-काव्य
तिरुवल्लुवर, अनुवादक पं० गोविन्दराय जैन

पृष्ठ ४४

 

 

परिच्छेदः ४४
दोषनिवृत्तिः

क्रोधदार्पौ हतौ यस्य विषये चास्तकामनाः।
अपूर्वभेव तस्यास्ति सौभाग्यद्योति गौरवम्॥१॥
प्रभुत्वजनितो दर्पो गृध्नुता विषयान्धता।
भूपे दोषा भवन्त्येते प्रायेणैव विशेषतः॥२॥
शुभ्रज्योत्स्नासमा कीर्तिः सुप्रिया यस्य विद्यते।
स्वदोषं सर्पपाकारं तालतुल्यं स मन्यते॥३॥
दोषाणां त्वं विनाशाय नित्यं भव समुद्यतः।
अन्यथा सर्वनाशं ते विधास्यन्तीति निश्चयः॥४॥
भाविदुःखफल भोक्तूं यः पूर्व नैव सज्जितः।
स तथा निधनं याति यथाग्नौ तृणसंहतिः॥५॥
परशुद्धिविधेः पूर्वं यः स्वदोषान् विशुध्यति।
के तं दोषाः स्पृशन्तीह भूपाल योगिसन्निभम्॥६॥
हा धिक् तं कृपणं मर्त्यं व्ययो यस्य न राजते।
व्ययस्थानेऽपि तस्यान्ते विनाशो ननु निश्चितः॥७॥
निन्द्यत्वेन समाः सर्वे दुर्गुणाः खलु भूतले।
परं तत्रापि कार्पण्यं विभिन्नं परिगण्यते॥८॥
सहसैव प्रसादोऽपि नृणां दोषाय कल्पते।
लाभेन वर्जितं कार्य हातव्यं तच्च दूरतः॥९॥
स्वाभिलाषास्तथा गोप्या यथा वेद्या निजारिभिः।
न भवेयुः कथंचित् ता निष्फलाः स्युस्ततो द्विषः॥१०॥