कुरल-काव्य/परिच्छेदः ४ धर्ममाहात्म्यम्

विकिस्रोत से

[  ]

परिच्छेदः ४
धर्ममाहात्म्यम्

धर्मात् साधुतरः कोऽन्यो यतो विन्दन्ति मानवाः।
पुण्यं स्वर्गप्रदं नित्यं निर्वाणञ्च सुदुर्लभम्॥१॥
धर्मान्नास्त्यपरा काचित् सुकृतिर्देहधारिणीम्।
तत्त्यागान्न परा काचिद् दुष्कृतिर्देहभाजिनाम्॥२॥
सत्कृत्यं सर्वदा कार्य यदुदर्के सुखावहम्।
पूर्णशक्तिं समाधाय महोत्साहेन धीमता॥३॥
सर्वेषामेव धर्माणामेष सारो विनिश्चितः।
मनःशुद्धिं विहायान्यो वृथैवाडम्बरो महान्॥४॥
दुर्वचोलोभकोपेर्ष्या हातव्या धर्मलिप्सुना।
इदं हि धर्मसोपानं धर्मज्ञैः परिनिश्चितम्॥५॥
करिष्यामीति संकल्पं त्यक्त्वा धर्मी भव द्रुतम्।
धर्म एव परं मित्रं यन्मृत्यौ सह गच्छति॥६॥
को गुणः खलु धर्मेण मा पृच्छैवं कदाचन।
शिविकावाहकान् दृष्ट्‌वा तस्याञ्चारूढभूपतिम्॥७॥
व्यर्थ न याति यस्यैकं धर्माचारं बिना दिनम्।
जन्ममृत्युमहाद्वारं मुद्रितं तेन साधुना॥८॥
सुखं धर्मसमुद्‌भूतं सुख प्राहुर्मनीषिणः।
अन्यथा विषयोद्‌भूतं लज्जादुःखानुबन्धि तत्॥९॥
कार्य तदेव कर्तव्यं यत् सदा धर्मसंभृतम्।
धर्मेणासंगतं कार्य हातव्यं दूरतो द्रुतम्॥१०॥