कुरल-काव्य/परिच्छेदः ५ गृहस्थाश्रमः

विकिस्रोत से

[  ]

परिच्छेदः ५
गृहस्थाश्रमः

आश्रमाः खलु चत्वारस्तेषु धन्या गृहस्थिताः।
मुख्याश्रया हि ते सन्ति भिन्नाश्रमनिवासिनाम्॥१॥
अनाथानां हि नाथोऽयं निर्धनानां सहायकृत्।
निराश्रितमृतानाञ्च गृहस्थः परमः सखा॥२॥
गृहिणः पञ्च कर्माणि स्वोन्नतिर्देवपूजनम्।
बन्धुसाहाय्यमातिथ्यं पूर्वेषां कीर्तिरक्षणम्॥३॥
परनिन्दाभयं यस्य बिना दानं न भोजनम्।
कृतिनस्तस्य निर्बीजो वंशो नैव कदाचन॥४॥
यत्र धर्मस्य साम्राज्यं प्रेमाधिक्यञ्च दृश्यते।
तद्‌गृहे तोषपीयूषं सफलाश्च मनोरथाः॥५॥
गृही स्वस्यैव कर्माणि पालयेद् यत्नतो यदि।
तस्य नावश्यका धर्मा भिन्नाश्रमनिवासिनाम्॥६॥
धर्मेण संगतं यस्य कार्य संजायते सदा।
मुमुक्षुजनमध्ये तु स श्रेष्ठ इति कीर्तितः॥७॥
यो गृही नित्यमुद्युक्तः परेषां कार्यसाधने।
स्वयञ्चारसम्पन्नः पूतात्मा स ऋषेरपि॥८॥
धर्माचारौ विशेषेण नित्यं सम्बन्धमाजिनौ।
जीवनेन गृहस्थस्य सुकीर्तिस्तस्य भूषणम्॥९॥
विदधाति तथा कार्यं यथा यद्विहितं विधौ।
विबुधः स गृही सत्यं मान्यैरायैंः प्रकीर्तितः॥१०॥