सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ११ ॥
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रिगुणान् मद्भावायोपपद्यते ॥ १२ ॥
निषेवितानिमित्तेन स्वधर्मेण महीयसा ।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १३ ॥
मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यमिवंदनैः ।
भूतेषु मद्भावनया सत्त्वेनासंगमेन च ॥ १४ ॥
महतां बहुमानेन दीनानामनुकम्पया।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १५ ॥
आध्यात्मिकानुश्रवणानामसंकीर्तनाच्च मे ।
आर्जवेनार्यसंगेन निरहंक्रियया तथा ॥ १६ ॥
मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः ।
पुरुषस्त्वजसाऽभ्येति श्रुतमात्रगुणं हि माम् ॥१७॥
यथा वातरथो घ्राणमाङ्क्ते गन्ध आशयात् ।
एवं योगरतं चेत आत्मानमविकारि यत् ॥१८॥
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ १९ ॥
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वाऽचर्चा भजते मौढयाद्भस्मन्येव जुहोति सः ॥ २० ॥
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २१ ॥
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयाऽनघे ।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २२ ॥
अर्चादावर्चयेत्तावदीश्वर मां स्वकर्मकृत् ।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २३ ॥
४०