पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५४१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ३ ५२७ मन्त्र: ३३ स यो मनुष्याणा राद्धः समृद्धो भवत्यन्येषामधि- पतिः सर्वैर्मानुष्यकै गैः संपन्नतमः स मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः पितृणां जितलोकानामानन्दोऽथ ये शतं पितॄणां जितलोकाना- मानन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्व- लोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्तेऽथ ये शतं कर्म देवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽका- महतोऽथ ये शतमाजानदेवानामानन्दाः स एकः प्रजा- पतिलोक आनन्दो यश्च श्रोत्रियोऽजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एप ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूही- त्यत्र ह याज्ञवल्क्यो विभयांचकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ पदच्छेदः। सः, यः, मनुष्याणाम् ,राद्धः, समृद्धः, भवति, अन्येषाम् , अधिपतिः, सर्वैः, मानुष्यकैः, भोगैः, संपन्नतमः, सः, मनु- ष्याणाम्, आनन्दः, अथ, ये, शतम् , मनुष्याणाम् , परमः,