पृष्ठ:श्रीभक्तमाल.pdf/९८७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीभक्तमाल सटीक । ॥श्री। काशी कान्यकुब्जसभातः समालोचना श्री ५ युत-महामान्य-धन्यतम-सौजन्यमूर्तिभिः श्रीसीतारामशरण- भगवत्प्रसादैः श्री १००८ नामास्वामिकृत-भक्तमालग्रन्थस्य तदुपरि श्री १०८ प्रियादासप्रणीतटीकाप्रवन्धस्यापि निर्मातुः भक्तिसुधास्वाद- नामको व्याख्यानरूपः संदर्भो भक्तिरसिकजनानां चेतस्सु परमाताद- मुत्पादयति। प्रायश्चैतादृशी सरलता सरसता च व्याख्यानग्रन्थेषु न कापि दृग्गोचरीभूता, प्रशंसनीयः खलु व्याख्यातुर्महाशयस्य परिश्रमः किंच बस्थलेषु प्रियादासेन यः कथाभागो न समासादितः, सोपि भगव- द्भक्तिपरायणैर्भगवत्मसार्दैमहता परिश्रमेणान्विष्य परिपूर्तिमापितः ॥ तथाच अस्य ग्रन्थस्य पूर्वोभागस्तिलकका प्रेषितस्तत्समालो- बनायां सभातो यानि दूपणानि परिमाष्टुं विज्ञप्तिः कृता तदिषये यथाशक्यं यतते ग्रन्थकारः॥ समायात द्वितीयभागे ऋष्यशृङ्ग (शृङ्गीऋषि) वृत्तान्तं समीक्ष्या- पूर्वतरं साश्चर्या भवन्ति सभ्याः॥ एवं च श्वपचवाल्मीके कथापि भगवद्भक्ति सुदृढ़ दृढयति ॥ गोपिकाबन्दस्य भगवचरणारविन्दे परमप्रेमवोधिका गीतिं दृष्ट्वा प्रस्तरमयहृदयस्यापि द्रवता भवति । इत्थमनेकगुणगणगुम्फितोयं ग्रन्थः सुभक्तजनानां परमोपादेयः॥ भाषापि प्रशंसनीया, पुष्टचिकणपत्राणामुपरि मुद्रणमिति शम् ॥ श्रीकाशीजीटेदीनीम? (हस्ताक्षर) काशीनाथ तारीख १७ मार्च, सन् १९०५ मंत्री, कान्यकुब्धसभा (हस्ताक्षर) Mani Ram Shastri) सहकारी मंत्री, का० स०