पृष्ठ:हिंदू राज्यतंत्र.djvu/२३९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

( २०८) तत्रादानेन भिधन्ते गणाः संघातवृत्तयः । भिन्ना विमनसः सर्वे गच्छन्त्यरिवश' भयात् ॥ १३ ॥ भेदे गया विनश्येयुर्भिन्नास्तु सुजया: परैः । तस्मात् संघातयोगेन प्रयतेरन् गणाः सदा ॥ १४ ॥ अर्थाश्चैवाधिगम्यन्ते संघात-बल-पौरुषैः । बाह्याश्च मैत्री कुर्वन्ति तेषु संघातवृत्तिषु ।। १५ ।। ज्ञानवृद्धा: प्रशंसन्ति शुश्रूषन्तः परस्परम् । विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः ।। १६ ॥ धर्मिष्ठान व्यवहारांश्च स्थापयन्तश्च शास्त्रतः । यथावत् प्रतिपश्यन्तो विवर्द्धन्ते गणोत्तमाः ॥ १७ ॥ पुत्रान् भ्रातॄन विगृह्णन्तो विनयन्तश्च तान् सदा । विनीतांश्च प्रगृहन्तो विवर्धन्ते गयोत्तमाः ।। १८ ।। चारमन्त्रविधानेषु कोषसन्निचयेषु च । नित्ययुक्ता महाबाहो वर्द्धन्ते सर्वतो गणाः ॥ १६ ॥ प्राज्ञान् शूरान्महोत्साहान् कर्मसु स्थिरपौरुषान् । मानयन्तः सदा युक्तान् विवर्द्धन्ते गणा नृप ॥२०॥ द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शाखपारगाः । कृच्छास्वापत्सु संमूढान् गणाः सन्तारयन्ति ते ॥२१॥ क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः । नयत्यरिवशं सद्यो गणान् भरतसत्तम ॥ २२ ।। तस्मान्मानयितव्यास्ते, गणमुख्याः प्रधानतः । लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ।। २३ ।।