पृष्ठ:हिंदू राज्यतंत्र.djvu/३४६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

( ३१५ ) स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद । कृत्स्ना बुद्धिं च ते प्रेक्ष्य संपृच्छे त्रिदिवङ्गम ॥ ४ ॥ दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् । अर्धभोक्ताऽस्मि भोगानां वागदुरुक्तानि च क्षमे ॥ ५ ॥ अरणीमग्निकामो वा मथ्नाति हृदयं मम । वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा ॥६॥ बलं सङ्कर्षणे नित्यं सौकुमार्य पुनर्गदे । रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥ ७ ॥ अन्ये हि सुमहाभागा बलवंता दुरासदाः । नित्योत्थानेन संपन्ना नारदांधकवृष्णयः ॥ ॥ यस्य न स्युर्न वै स स्यायस्य स्युः कृत्स्नमेव तत् । द्वयोरेनं प्रचरतोवृणोम्येकतरं न च ॥ ६ ॥ स्थातां यस्याहुकाक्रूरौ कि नु दुःखतरं ततः । यस्य चापि न तो स्यातां किनु दुःखतरं ततः ॥ १० ॥ सोऽहं कितवमातेव द्वयोरपि महामुने । नैकस्य जयमाशंसे द्वितीयस्य पराजयम् ।। ११ ॥ ममैवं क्लिश्यमानस्य नारदोमयदर्शनात् । वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ।। १२ ।। नारद उवाच पापदो द्विविधाः कृष्ण बाह्याश्चाभ्यंतराश्च ह । प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः ॥ १३ ॥