पृष्ठ:हिंदू राज्यतंत्र.djvu/३४७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

( ३१६) सेयमाभ्यन्तरा तुभ्यमापत् कृच्छा स्वकर्मजा । अक्रूरभोजप्रभवा सर्वे ह्यते तदन्वयाः ॥ १४ ॥ अर्थहेतोहि कामाद्वा वीरबीभत्सया*ऽपि वा। आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ॥ १५ ॥ कृतमूलमिदानी तत् ज्ञाति-शब्दं सहायवत् । न शक्यं पुनरादातुं वान्तमन्नमिव खयम् ॥ १६ ॥ बभूप्रसेनतो राज्यं नास्तु शक्यं कथंचन । ज्ञातिभेदभयाकृष्ण त्वया चापि विशेषतः ॥ १७ ॥ तञ्च सिध्यत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् । महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत् ॥ १८ ॥ अनायसेन शस्त्रण मृदुना हृदयच्छिदा। जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च ।। १६ ।। वासुदेव उवाच अनायसं मुने शस्त्र मृदु विद्यामहं कथम् । येनैषामुद्धरे जिहां परिमृज्यानुमृज्य च ॥ २०॥ नारद उवाच शक्यान्नदानं सततं तितिक्षार्जवमार्दवम् । यथाई प्रतिपूजा च शस्त्रमेतदनायसम् ॥ २१ ॥ ज्ञातीनां वक्तुकामानां कटुकानि लघूनि च । गिरा त्वं हृदयं वाचं शमयस्व मनांसि च ॥ २२ ॥ पाठांतर-चाचा वीभत्सया ।